|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.77. अध्यायः 077
Mahabharata - Adi Parva - Chapter Topics
शर्मिष्ठापुत्रदर्शनेन देवयान्याः शर्मिष्ठया सह संवादः॥ 1 ॥
देवयानीशर्मिष्ठयोः पुत्रान्तरोत्पत्तिः॥ 2 ॥
शर्मिष्ठापुत्रान्ययातिजाञ्ज्ञात्वा कुपितायाः देवयान्याः शुक्रसमीपे गमनम्॥ 3 ॥
ययातेः शुक्रशापाज्जराप्राप्तिः॥ 4 ॥
तस्या अन्यस्मिन्संक्रमणरूपवरप्राप्तिः॥ 5 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-77-0x(437)(3494)
`तस्मिन्नक्षत्रसंयोगे शुक्ले पुण्यर्क्षगेन्दुना।
स राजा मुमुदे सम्राट् तया शर्मिष्ठया सह॥ 1-77-1(3495)
प्रजानां श्रीरिवाभ्याशे शर्मिष्ठा ह्यभवद्वधूः।
पन्नगीवोग्ररूपा वै देवयानी ममाप्यभूत्॥ 1-77-2(3496)
पर्जन्य इव सस्यानां देवानाममृतं यथा।
तद्वन्ममापि संभूता शर्मिष्ठा वार्षपर्वणी।
इत्येवं मनसा ज्ञात्वा देवयानीमवर्जयत्॥' 1-77-3(3497)
श्रुत्वा कुमारं जातं तु देवयानी शुचिस्मिता।
चिन्तयामास दुःखार्ता शर्मिष्ठां प्रति भारत॥ 1-77-4(3498)
अभिगम्य च शर्मिष्ठां देवयान्यब्रवीदिदम्। 1-77-5(3499)
देवयान्वुवाच।
किमिदं वृजिनं सुभ्रु कृतं वै कामलुब्धया॥ 1-77-5x(438)
शर्मिष्ठोवाच। 1-77-6x(439)
ऋषिरभ्यागतः कश्चिद्धर्मात्मा वेदपारगः।
स मया वरदः कामं याचितो धर्मसंहितम्॥ 1-77-6(3500)
`अपत्यार्थे स तु मया वृतो वै चारुहासिनि'।
नाहमन्यायतः काममाचरामि शुचिस्मिते।
तस्मादृषेर्ममापत्यमिति सत्यं ब्रवीमि ते॥ 1-77-7(3501)
देवयान्युवाच। 1-77-8x(440)
शोभनं भीरु यद्येवमथ स ज्ञायते द्विजः।
गोत्रनामाभिजनतो वेत्तुमिच्छामि तं द्विजम्॥ 1-77-8(3502)
शर्मिष्ठोवाच। 1-77-9x(441)
तपसा तेजसा चैव दीप्यमानं यथा रविम्।
तं दृष्ट्वा मम संप्रष्टुं शक्तिर्नासीच्छुचिस्मिते॥ 1-77-9(3503)
देवयान्युवाच। 1-77-10x(442)
यद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम।
अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात्॥ 1-77-10(3504)
वैशम्पायन उवाच। 1-77-11x(443)
अन्योन्यमेवमुक्त्वा तु संप्रहस्य च ते मिथः।
जगाम भार्गवी वेश्म तथ्यमित्यवजग्मुषी॥ 1-77-11(3505)
ययातिर्देवयान्यां तु पुत्रावजनयन्नृपः।
यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ॥ 1-77-12(3506)
`तस्मिन्काले तु राजर्षिर्ययातिः पृथिवीपतिः।
माध्वीकरससंयुक्तां मदिरां मदवर्धनीम्॥ 1-77-13(3507)
पाययामास शुक्रस्य तनयां रक्तपिङ्गलाम्।
पीत्वा पीत्वा च मदिरां देवयानी मुमोह सा॥ 1-77-14(3508)
रुदती गायमाना च नृत्यन्ती च मुहुर्मुहुः।
बहु प्रलपती देवी राजानमिदमब्रवीत्॥ 1-77-15(3509)
राजवद्रूपवेषौ ते किमर्थं त्वमिहागतः।
केन कार्येण संप्राप्तो निर्जनं गहनं वनम्॥ 1-77-16(3510)
द्विजश्रेष्ठ नृपश्रेष्ठो ययातिश्चोग्रदर्शनः।
तस्मादितः पलायस्व हितमिच्छसि चेद्द्विज॥ 1-77-17(3511)
इत्येवं प्रलपन्तीं तां देवयानीं तु नाहुषः।
भर्त्सयामास वचनैरनर्हां पापवर्धनीम्॥ 1-77-18(3512)
ततो वर्षवरान्मूकान्व्यङ्गान्वृद्धांश्च पङ्गुकान्।
रक्षणे देवयान्याः स पोषणे च शशास तान्॥ 1-77-19(3513)
ततस्तु नाहुषो राजा शर्मिष्ठां प्राप्य बुद्धिमान्।
रेमे च सुचिरं कालं तया शर्मिष्ठया सह॥' 1-77-20(3514)
तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी।
द्रुह्युं चानुं च पूरुं च त्रीन्कुमारानजीजनत्॥ 1-77-21(3515)
ततः काले तु कस्मिंश्चिद्देवयानी शुचिस्मिता।
ययातिसहिता राजञ्जगाम रहितं वनम्॥ 1-77-22(3516)
ददर्श च तदा तत्र कुमारान्देवरूपिणः।
क्रीडमानान्सुविश्रब्धान्विस्मिता चेदमब्रवीत्॥ 1-77-23(3517)
देवयान्युवाच। 1-77-24x(444)
`कस्यैते दारका राजन्देवपुत्रोपमाः शुभाः।
वर्चसा रूपतश्चैव सदृशा मे मतास्तव॥ 1-77-24(3518)
वैशम्पायन उवाच। 1-77-25x(445)
एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत॥ 1-77-25(3519)
तस्मिन्काले तु तच्छ्रुत्वा धात्री तेषां वचोऽब्रवीत्।
किं न ब्रूत कुमारा वः पितरं वै द्विजर्षभम्॥ 1-77-26(3520)
कुमारा ऊचुः। 1-77-27x(446)
ऋषिश्च ब्राह्मणश्चैव द्विजातिश्चैव नः पिता।
शर्मिष्ठा नानृतं ब्रूते देवयानि क्षमस्व नः॥' 1-77-27(3521)
देवयान्युवाच। 1-77-28x(447)
किंनामधेयगोत्रो वः पुत्रका ब्राह्मणः पिता।
प्रब्रूत तत्त्वतः क्षिप्रं कश्चासौ क्व च वर्तते॥ 1-77-28(3522)
प्रब्रूत मे यथा तथ्यं श्रोतुमिच्छामि तं ह्यहम्।
एवमुक्ताः कुमारस्ते देवयान्या सुमध्यया॥ 1-77-29(3523)
तेऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम्।
शर्मिष्ठां मातरं चैव तथाऽऽचख्युश्च दारकाः॥ 1-77-30(3524)
वैशम्पायन उवाच। 1-77-31x(448)
इत्युक्त्वा सहितास्ते तु राजानमुपचक्रमुः।
नाभ्यनन्दत तान्राजा देवयान्यास्तदान्तिके॥ 1-77-31(3525)
रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्बालकास्ततः।
`अविब्रुवन्ती किंचिच्च राजानं चारुलोचना॥ 1-77-32(3526)
नातिदूराच्च राजानं सा चातिष्ठदवाङ्मुखी।
श्रुत्वा तेषां तु बालानां सव्रीड इव पार्थिवः॥ 1-77-33(3527)
प्रतिवक्तुमशक्तोऽभूत्तूष्णींभूतोऽभवन्नृपः।
दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति॥ 1-77-34(3528)
बुद्ध्वा तु तत्त्वतो देवी शर्मिष्ठापिदमब्रवीत्।
अभ्यागच्छति मां कश्चिदृषिरित्येवमब्रवीः॥ 1-77-35(3529)
ययातिमेवं राजानं त्वं गोपायसि भामिनि।
पूर्वमेव मया प्रोक्तं त्वया तु वृजिनं कृतम्॥ 1-77-36(3530)
मदधीना सती कस्मादकार्षीर्विप्रियं मम।
तमेवाऽऽसुरधर्मं त्वमास्थिता न बिभेषि मे॥' 1-77-37(3531)
शर्मिष्ठोवाच। 1-77-38x(449)
यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि।
न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते॥ 1-77-38(3532)
यदा त्वया वृतो भर्ता वृत एव तदा मया।
सखीभर्ता हि धर्मेण भर्ता भवति शोभने॥ 1-77-39(3533)
पूज्यासि मम मान्या च ज्येष्ठा च ब्राह्मणी ह्यसि।
त्वत्तोपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत्॥ 1-77-40(3534)
`त्वत्पित्रा मम गुरुणा सह दत्ते उभे शुभे।
ततो भर्ता च पूज्यश्च पोष्यां पोषयतीह माम्॥ 1-77-41(3535)
वैशम्पायन उवाच। 1-77-42x(450)
श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीदिदम्।
रमस्वेह यथाकामं देव्या शर्मिष्ठया सह॥ 1-77-42(3536)
राजन्नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया।
इति जज्वाल कोपेन देवयानी ततो भृशम्॥ 1-77-43(3537)
निर्दहन्तीव सव्रीडां शर्मिष्ठां समुदीक्ष्य च।
अपविध्य च सर्वाणि भूषणान्यसितेक्षणा॥' 1-77-44(3538)
सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम्।
तूर्णं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा॥ 1-77-45(3539)
अनुवव्राज संभ्रान्तः पृष्ठतः सान्त्वयन्नृपः।
न्यवर्तत नचैव स्म क्रोधसंरक्तलोचना॥ 1-77-46(3540)
अविब्रुवन्ती किंचित्सा राजानं साश्रुलोचना।
अचिरादेव संप्राप्ता काव्यस्योशनसोऽन्तिकम्॥ 1-77-47(3541)
सा तु दृष्ट्वै पितरमभिवाद्याग्रतः स्थिता।
अनन्तरं यायातिस्तु पूजयामास भार्गवम्॥ 1-77-48(3542)
देवयान्युवाच। 1-77-49x(451)
अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम्।
शर्मिष्ठयाऽतिवृत्ताऽस्मि दुहित्रा वृषपर्वणः॥ 1-77-49(3543)
त्रयोऽस्यां जनिताः पुत्रा राज्ञाऽनेन ययातिना।
दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते॥ 1-77-50(3544)
धर्मज्ञ इति विख्यात एष राजा भृगूद्वह।
अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते॥ 1-77-51(3545)
शुक्र उवाच। 1-77-52x(452)
धर्मज्ञः सन्महाराज योऽधर्ममकृथाः प्रियम्।
तस्माज्जरा त्वामचिराद्धर्षयिष्यति दुर्जया॥ 1-77-52(3546)
ययातिरुवाच। 1-77-53x(453)
ऋतुं वै याचमानाया भगवन्नान्यचेतसा।
दुहितुर्दानवेन्द्रस्य धर्म्यमेतत्कृतं मया॥ 1-77-53(3547)
ऋतुं वै याचमानाया न ददाति पुमानृतुम्।
भ्रूणहेत्युच्यते ब्रह्मन् स इह ब्रह्मवादिभिः॥ 1-77-54(3548)
अभिकामां स्त्रियं यश्च गम्यां रहसि याचितः।
नोपैति स च धर्मेषु भ्रूणहेत्युच्यते बुधैः॥ 1-77-55(3549)
`यद्यद्वृणोति मां कश्चित्तत्तद्देयमिति व्रतम्।
त्वया च सापि दत्ता मे नान्यं नाथमिहेच्छति'॥ 1-77-56(3550)
इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह।
अधर्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान्।
`मत्वैतन्मे धर्म इति कृतं ब्रह्मन्क्षमस्व माम्॥' 1-77-57(3551)
शुक्र उवाच। 1-77-58x(454)
नन्वहं प्रत्यवेक्ष्यस्ते मदधीनोऽसि पार्थिव।
मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष॥ 1-77-58(3552)
वैशम्पायन उवाच। 1-77-59x(455)
क्रुद्धेनोशनसा शप्तो ययातिर्नाहुषस्तदा।
पूर्वं वयः परित्यज्य जरां सद्योऽन्वपद्यत॥ 1-77-59(3553)
ययातिरुवाच। 1-77-60x(456)
अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह।
प्रसादं कुरु मे ब्रह्मञ्जरेयं न विशेच्च माम्॥ 1-77-60(3554)
शुक्र उवाच। 1-77-61x(457)
नाहं मृषा ब्रवीम्येतज्जरां प्राप्तोऽसि भूमिप।
जरां त्वेतां त्वमन्यस्मिन्संक्रामय यदीच्छसि॥ 1-77-61(3555)
ययातिरुवाच। 1-77-62x(458)
राज्यभाक्स भवेद्ब्रह्मन्पुण्यभाक्कीर्तिभाक्तथा।
यो मे दद्याद्वयः पुत्रस्तद्भवाननुमन्यताम्॥ 1-77-62(3556)
शुक्र उवाच। 1-77-63x(459)
संक्रामयिष्यसि जरां येथेष्टं नहुषात्मज।
मामनुध्याय भावेन न च पापमवाप्स्यसि॥ 1-77-63(3557)
वयो दास्यति ते पुत्रो यः स राजा भविष्यति।
आयुष्मान्कीर्तिमांश्चैव बह्वपत्यस्तथैव च॥ ॥ 1-77-64(3558)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि सप्तसप्ततितमोऽध्यायः॥ 77 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-77-49 अधरोत्तरं नीचस्याभिवृद्धिरुत्तमस्य ह्रासः। अतिवृत्तास्मि राज्ञः सकाशादपत्यत्रयाधिगमनेतिक्रान्तोल्लङ्घिताऽस्मि॥ 1-77-52 अधर्ममेव प्रियमकृथाः॥ 1-77-53 नान्यचेतसा न कामलोभेन॥ 1-77-58 प्रत्यवेक्ष्यः अस्मिन्मकर्मणि मदाज्ञापि त्वया प्रार्थनीयेति भावः॥ 1-77-62 ज्येष्ठस्य राज्याप्रदानजं पापम्॥ सप्तसप्ततितमोऽध्यायः॥ 77 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|